________________
1A
श्रीशुक उवाच
—
सत्यधर्मीया
श्रीमद्भगवद्बादरायणप्रणीतम्
श्रीमद्भागवतम्
दशमस्कन्ध उत्तरार्धः
॥ अथ एकोनपञ्चाशोऽध्यायः ॥
अस्तिप्रास्तीति कंसस्य महिष्यौ भरतर्षभ । हते भर्तरि दुःखार्ते ईयतुः स्वपितुर्गृहान् ॥ १ ॥
श्रीसत्यधर्मयतिकृता भागवतटिप्पणी
॥ हरिः ॐ ॥ यदर्थमत्यर्थमर्थितोऽर्थितदोऽवनाववतीर्णश्चकार चाङ्कुरार्पणं तत्तूर्णमुदीर्णं विधातुमिव गते गतपतिके द्वे सुते मागधस्येत्यादिरेतदादिकथना- कर्णनादिकं च मुक्तिकारणमिति निरूप्यतेऽस्मिन्स्कन्धे । तत्रादौ का कथोत्तरत्र प्रवृत्ते - त्यौत्तरेयस्यान्तरीं शङ्कां स्वयमेव शुक आशुकरुणः परिहरन्वक्तीति वक्ति श्रीशुक इति । हे भरतर्षभ । अत्रोत्तरत्र यौष्माकीणपूर्वपुरुषकर्मैव प्रतिपाद्यते प्राय इति प्रोत्साहयितुं सम्बोधनमिति मन्तव्यम् । कंसस्यास्तिप्रास्तीति द्वे महिष्यौ मूर्धाभिषिक्ते योषितौ निर्विसर्गे द्वे नामनी अस्तीति प्रास्तीति विवेकः । अस्तिः प्रास्तिश्चेत्यपि हरिवंशपाठस्तत्रेति - शब्दोऽध्याहार्यः । भर्तरि कंसे हते कृष्णेनेति शेषः । दुःखार्ते, स्वपितुर्जरासन्धस्य गृहा- नीयतुः । अत्र भर्तृगेहे तन्निवेशकर्तुरदर्शनात्पुत्री नष्टा चेत्पितृशरणं शरणमिति नीत्या गते । हरिरेव तदायुरवलोक्यैतेऽत्रैरयत्तत्र गन्तुमिति तात्पर्यं चावधेयम् । यच्च भागवतं तत्र क्व नामातीवदुर्वचः ।
आध्यात्मिकोऽर्थो विदुषां विदुषैतत्कृते कृतम् । ईदूदेद्विवचनमिति प्रगृह्यसञ्ज्ञायां प्लुतप्रगृह्या अचि नित्यमिति प्रकृतिभावः || १ ||